|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.139. अध्यायः 139
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति पूजनीब्रह्मदत्तसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-139-0x(5728)(70316)
उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्॥ 12-139-1(70317)
विश्वासाद्धि परं राजन्राज्ञामुत्पद्यते भयम्।
कथं हि नाश्वसन्राजा शत्रूञ्जयति पार्थिवः॥ 12-139-2(70318)
एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति।
अविश्वासे कथामेतामुपाश्रित्य पितामह॥ 12-139-3(70319)
भीष्म उवाच। 12-139-4x(5729)
शृणुष्व राजन्यो वृत्तो ब्रह्मदत्तनिवेशने।
पूजन्या सह संवादो ब्रह्मदत्तस्य भूपतेः॥ 12-139-4(70320)
काम्पिल्ये ब्रह्मदत्तस्य त्वन्तः पुरनिवासिनी।
पूजी नाम शकुनिर्दीर्घकालं सहोपिता। 12-139-5(70321)
रुदज्ञा सर्वभूतानां यथा वै जीवजीवकः।
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि स॥ 12-139-6(70322)
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्।
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत॥ 12-139-7(70323)
तयोरर्थे कृतज्ञा तु खेचरी पूजनी सदा।
समद्रतीरं सा गत्वा आजहार फलद्वयम्॥ 12-139-8(70324)
अष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह।
लमेकं सुतायादाद्राजपुत्राय चापरम्॥ 12-139-9(70325)
---मृतास्यादसदृशं बलतेजोभिवर्धनम्।
[आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः॥] 12-139-10(70326)
ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात्।
ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः॥ 12-139-11(70327)
ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः।
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा॥ 12-139-12(70328)
शून्ये च तमुपादाय पक्षिणं समजातकम्।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः॥ 12-139-13(70329)
अथ सा पूजनी राजन्नागमत्फलहारिणी।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले॥ 12-139-14(70330)
बाष्पपूर्णमुखी दीना दृष्ट्वा तं पतितं सुतम्।
पूजनी दुःखसंतप्ता रुदन्ती वाक्यमब्रवीत्॥ 12-139-15(70331)
क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम्।
कारणे सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च॥ 12-139-16(70332)
क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्॥ 12-139-17(70333)
इयमस्य करोम्यद्य सदृशीं वैरयातनाम्।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः॥ 12-139-18(70334)
सहसंजातवृद्धस्य तथैव सहभोजिनः।
शरण्यस्य वधश्चैव त्रिविधं तस्य किल्विषम्॥ 12-139-19(70335)
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा।
हृत्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्॥ 12-139-20(70336)
इच्छयेह कृतं पापं सद्य एवोपसर्पति।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम्॥ 12-139-21(70337)
पापं कर्म कृतं किंचिद्यदि तस्मिन्न दृश्यते।
निपात्यतेऽस्य पुत्रेषु पौत्रेष्वपि च नप्नृषु॥ 12-139-22(70338)
ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम्।
कृतप्रतिकृतं मत्वा पूजनीमिदमब्रवीत्॥ 12-139-23(70339)
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया।
उभयं तत्समीभूतं वस पूजनि मा गमः॥ 12-139-24(70340)
पूजन्युवाच। 12-139-25x(5730)
सकृत्कृतापराधस्य तत्रैव परिलम्बतः।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्॥ 12-139-25(70341)
सान्त्वे प्रयुक्ते विवृते वैरे चैव न विश्वसेत्।
क्षिप्रं स हन्यते मूढो न हि वैरं प्रशाम्यति॥ 12-139-26(70342)
अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति।
पुत्रपौत्रविनाशे च परलोकं नियच्छति॥ 12-139-27(70343)
सर्वेषां कृतवैराणामविश्वासः सुखावहः।
एकान्ततो न विश्वासः कार्यो विश्वासघातके॥ 12-139-28(70344)
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति।
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत्॥ 12-139-29(70345)
माता पिता बान्धवानां वरिष्ठौ
भार्या क्षेत्रं बीजमात्रं तु पुत्रः।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य
आत्मा ह्येकः सुखदुःखस्य भोक्ता॥ 12-139-30(70346)
अन्योन्यकृतवैराणां न संधिरुपपद्यते।
स च हेतुरतिक्रान्तो यदर्थमहमावसम्॥ 12-139-31(70347)
पूजितस्यार्थमानाभ्यां सान्त्वं पूर्वापकारिणः।
हृदयं भवत्यविश्वस्तं कर्म त्रासयते बलात्॥ 12-139-32(70348)
पूर्वं संमानना यत्र पश्चाच्चैव विमानना।
जह्यात्स सत्ववान्वासं संमानितविमानितः॥ 12-139-33(70349)
उषिताऽस्मि तवागारे दीर्घकालमहिंसिता।
तदिदं वैरमुत्पन्नं सुखमास्ख व्रजाम्यहम्॥ 12-139-34(70350)
ब्रह्मदत्त उवाच। 12-139-35x(5731)
यः कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात्।
अनृणस्तेन भवति वस पूजनि मागमः॥ 12-139-35(70351)
पूजन्युवाच। 12-139-36x(5732)
न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च॥ 12-139-36(70352)
ब्रह्मदत्त उवाच। 12-139-37x(5733)
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः॥ 12-139-37(70353)
पूजन्युवाच। 12-139-38x(5734)
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्।
विश्वासाद्बध्यते लोकस्तस्माच्छ्रेयोप्यदर्शनम्॥ 12-139-38(70354)
तरसा ये न शक्यन्ते शस्त्रैः सुनिसितैरपि।
साम्ना तेऽपि निगृह्यते गजा इव करेणुभिः॥ 12-139-39(70355)
ब्रह्मदत्त उवाच। 12-139-40x(5735)
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि।
अन्योन्यस्य हि विश्वासः श्वानश्वपचयोरिव॥ 12-139-40(70356)
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम्॥ 12-139-41(70357)
पूजन्युवाच। 12-139-42x(5736)
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः।
स्त्रीकृतं वास्तुजं वाग्जं स्वसपत्नापराधजम्॥ 12-139-42(70358)
तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः।
प्रकाशं वाऽप्रकाशं वा बुद्ध्वा दोषबलाबलम्॥ 12-139-43(70359)
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि।
प्रच्छन्नं तिष्ठते वैरं गूढोऽग्निरिव दारुषु॥ 12-139-44(70360)
न वित्तेन न पारुष्यैर्न च सान्त्वेन च श्रुतैः।
वैराग्निः शाम्यते राजन्निमग्नोऽग्निरिवार्णवे॥ 12-139-45(70361)
न हि वैराग्निरुद्धूतः कर्म चाप्यपराधजम्।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात्॥ 12-139-46(70362)
सत्कृतस्यार्थामनाभ्यां तत्र पूर्वापकारिणः।
नैव शान्तिर्न विश्वासः कर्मणा जायते बलात्॥ 12-139-47(70363)
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्।
उषितावाऽपि चक्रितं नेदानीं विश्वसाम्यहम्॥ 12-139-48(70364)
ब्रह्मदत्त उवाच। 12-139-49x(5737)
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
कालेनैव प्रवर्तन्ते कः कस्येत्यपराध्यति॥ 12-139-49(70365)
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव हि।
कार्यते चैव कालेन तन्निमित्तं न जीवति॥ 12-139-50(70366)
बध्यन्ते युगपत्केचिदेकैकं चापरे तथा।
कालो दहति भूतानि संप्राप्तोऽग्निरिवेन्धनम्॥ 12-139-51(70367)
नाहं प्रमाणं नैव त्वभन्योन्यं कारणं शुभे।
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्॥ 12-139-52(70368)
एवं वसेह सन्नेहा यथाकाममहिंसिता।
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि॥ 12-139-53(70369)
पूजन्युवाच। 12-139-54x(5738)
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्।
कस्मादपचितिं यान्ति बान्धवा बान्धवे हते॥ 12-139-54(70370)
कस्माद्देवासुराः सर्वे अन्योन्यमभिजघ्निरे।
यदि कालेन निर्याणं सुखदुःखे भवाभवौ॥ 12-139-55(70371)
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्॥ 12-139-56(70372)
प्रलापः सुमहान्कस्मात्क्रियते शोकमूर्च्छितैः।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु॥ 12-139-57(70373)
तव पुत्रो ममापत्यं हतवान्हिंसितो मया।
अनन्तरं त्वयाहं च बाधितव्या महीपते॥ 12-139-58(70374)
अहं हि पुत्रशोकेन कृतपापा तवात्मजे।
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु॥ 12-139-59(70375)
भक्षार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः॥ 12-139-60(70376)
वधबन्धभयादेके मोक्षतन्त्रमुपाश्रिताः।
जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः॥ 12-139-61(70377)
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः।
दुःखादुद्विजते सर्वं सर्वस्य सुखमीप्सितम्॥ 12-139-62(70378)
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम्॥ 12-139-63(70379)
वैरबन्धकृतं दुःखं स्त्रीकृतं सह तथा।
दुःखं दुःखेन सततं विवर्धति---- धिप॥ 12-139-64(70380)
न दुःखं परदुःखे वै केचिदाहुर----यः।
यो दुःखं नाभिजानाति स जल्पति माहाजने॥ 12-139-65(70381)
यस्तु शोचति दुःखार्ताः स कथं वक्तमुत्सहेत।
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे॥ 12-139-66(70382)
`भिन्ना श्लिष्टा न सज्यन्ते शस्त्रैः सुनिशितैरपि।'
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः॥ 12-139-67(70383)
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम्॥ 12-139-68(70384)
आवयोः कृतमन्योन्यं तस्य संधिर्न विद्यते।
स्मृत्वास्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति॥ 12-139-69(70385)
वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति।
मृण्मयस्येव भग्नस्य तस्य संधिर्न विद्यते॥ 12-139-70(70386)
निश्चयः स्वार्थशास्त्रेषु न विश्वासः सुखोदयः।
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा॥ 12-139-71(70387)
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा।
वध्यन्ते श्रद्दधाना हि मधु शुष्कतृणैरिव॥ 12-139-72(70388)
न हि वैराणि शाम्यन्ति कुलेष्वादशमाद्युगात्।
आख्यातारश्च विद्यन्ते कुले चेज्जायते पुमान्॥ 12-139-73(70389)
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिपाः।
अथैनं प्रतिहिंसन्ति पूर्णं घटमिवाश्मनि॥ 12-139-74(70390)
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित्।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते॥ 12-139-75(70391)
ब्रह्मदत्त उवाच। 12-139-76x(5739)
नाविश्वासाच्चिनोत्यर्थमीहते चापि किंचन।
भयात्त्वेकतरं मित्रं कृतकृत्या भवत्विह॥ 12-139-76(70392)
पूजन्युवाच। 12-139-77x(5740)
यस्येह व्रणिनौ पादौ पभ्द्यां च परिधावतः।
क्षिण्येते तस्य तौ पादौ सुगुप्तमपि धावतः॥ 12-139-77(70393)
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते।
तस्य वायुरुजाऽत्यर्थं नेत्रयोर्भवति ध्रुवम्॥ 12-139-78(70394)
दुष्टं पन्थानमासाद्य यो मोहादभिपद्यते।
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम्॥ 12-139-79(70395)
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः।
हीनः पुरुषकारेण तस्य वै नाप्नुते फलम्॥ 12-139-80(70396)
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते॥ 12-139-81(70397)
पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम्।
परिणाममविज्ञाय तदन्तं तस्य जीवितम्॥ 12-139-82(70398)
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्।
उदात्तं कर्म वै तत्र दैवं क्लीबा उपासते॥ 12-139-83(70399)
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु।
ग्रस्यतेऽकर्मशीलस्तु सदाऽनर्थैरकिंचनः॥ 12-139-84(70400)
तस्मात्संशयितव्येऽर्थे कार्य एव पराक्रमः।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः॥ 12-139-85(70401)
विद्या शौचं च दाक्ष्यं च बलं शौर्यं च पञ्चमम्।
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः॥ 12-139-86(70402)
निवेशनं च कुप्यं च क्षेत्रं भार्यां सुहृज्जनम्।
एतान्युपचितान्याहुः सर्वत्र लभते पुमान्॥ 12-139-87(70403)
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते।
न विभीषयते किंचिद्भीषितो न बिभेति च॥ 12-139-88(70404)
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते।
दाक्ष्येण कुर्वतां कर्मं संयमात्प्रतितिष्ठति॥ 12-139-89(70405)
गृहस्नेहावबद्धानां नराणामल्पमेधसाम्।
कुस्त्री खादति मांसानि माघमां सेगवा इव॥ 12-139-90(70406)
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये॥ 12-139-91(70407)
उत्पथाच्च विमानाच्च देशाद्दुर्भिक्षपीडितात्।
अन्यत्र वसतिं गच्छेद्वसेद्वा नित्यमानितः॥ 12-139-92(70408)
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे।
कृतमेतदनाहार्यं तव पुत्रे च पार्थिव॥ 12-139-93(70409)
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्।
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत्॥ 12-139-94(70410)
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका॥ 12-139-95(70411)
कुपुत्रे सौहृदं नास्ति नित्यमस्थिरसौहृदम्।
अवमानः कुंसबन्धे भवत्यर्थविपर्यये॥ 12-139-96(70412)
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीवति॥ 12-139-97(70413)
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः।
स च यौनाभिसंबन्धो यः सतोऽपि बुभूषति॥ 12-139-98(70414)
भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ॥ 12-139-99(70415)
अधर्मज्ञस्य विषये प्रजा नश्यन्ति निग्रहात्।
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन्॥ 12-139-100(70416)
बलिषङ्भागमुद्धृत्य फलं समुपयोजयेत्।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः॥ 12-139-101(70417)
दत्वाऽभयं यः स्वयमेव राजा
न तत्प्रमाणं कुरुतेऽर्थलोभात्।
स सर्वलोकादुपलभ्य पाप
मधर्मबुद्धिर्निरयं प्रयाति॥ 12-139-102(70418)
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि।
स सर्वं सुखमाप्नोति प्रजा धर्मेण पालयन्॥ 12-139-103(70419)
पिता भ्राता गुरुः शास्ता वह्निर्वैश्रवणो यमः।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः॥ 12-139-104(70420)
पिता हि राजा लोकस्य प्रजानां योऽनुकम्पिता।
तस्मिन्मिथ्यापनीते हि तिर्यग्भवति मानवः॥ 12-139-105(70421)
संभावयति मातेव दीनमप्युपपद्यते।
दहत्यग्निरिवानिष्टान्यमयत्यहितांस्तदा॥ 12-139-106(70422)
इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः।
गुरुर्धर्मोपदे--- गोप्ता च परिपालनात्॥ 12-139-107(70423)
यस्तु रञ्जयते ---- पौरजानपदान्गुणैः।
न तस्य भ्रश्यते---ज्यं गुणधर्मानुपालनात्॥ 12-139-108(70424)
यः सम्यक्प्रति---ह्णाति पौरजानपदार्चनम्।
स सुखं प्रेक्षते राजा इह लोके परत्र च॥ 12-139-109(70425)
नित्योद्विग्नाः प्रजा यस्य करुभारप्रपीडिताः।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम्॥ 12-139-110(70426)
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्।
स राजा सर्वसुखदः स्वर्गलोके महीयते॥ 12-139-111(70427)
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते।
बलिना विग्रही तस्य कुतो राज्यं कुतः सुखम्॥ 12-139-112(70428)
भीष्म उवाच। 12-139-113x(5741)
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्।
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम्॥ 12-139-113(70429)
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्।
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि॥ ॥ 12-139-114(70430)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः॥ 139॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-139-6 जीवजीवकः शाकुनिकः। जीवजीवक इति पक्षिविशेष इत्यन्ये॥ 12-139-7 अभिप्रजाता प्रसूतवती। देव्यां राजभार्यायाम्॥ 12-139-13 समजातकं समानवयसम्॥ 12-139-21 इच्छया बुद्धिपूर्वकम्। उपसर्पति फलरूपेण कर्तारम्॥ 12-139-22 पापमपराधकृतमेनः॥ 12-139-24 मागमः मास्मगमः॥ 12-139-25 परिलम्बतः विश्वासं कुर्वतः॥ 12-139-27 नियच्छति मृत्युर्नाशयति। ततो नष्टसंततित्वात्परलोकं च नियच्छति॥ 12-139-30 भार्या जरेति झ. पाठः। जरा वीर्यहरत्वात्। बीजमात्रं प्रसवरूपत्वात्। शत्रुः रिक्यहरत्वात्। क्लिन्नपाणिः उपक्रियमाणः। धनादिना पूज्यमानमेव मित्रं नान्यदित्यर्थः॥ 12-139-31 हेतुः पुत्ररक्षा स्नेहो वा॥ 12-139-32 कर्म स्वकृतम्॥ 12-139-36 अन्योन्यस्यापकारमुभावपि नित्यं स्मरत इत्यर्थः॥ 12-139-39 न शक्यन्ते जेतुमिति शेषः॥ 12-139-40 श्वपचश्चण्डालः। श्वमांसाहारोऽपि शुना सह सख्यमेति॥ 12-139-42 वैरं स्त्रीकृतं कृष्णशिशुपालयोः वास्तु गृंहादिकं स्थानं तज्जं कौरवपाण्डवानाम्। वाग्जं द्रोणद्रुपदयोः। सापन्नं जातिवैरं मूषकमार्जारयोः। अपराधजं आवयोः॥ 12-139-43 कृतवैरोऽपि दाताऽर्थादिना मानयिता अर्थाशावत राज्ञा न हन्तव्यः॥ 12-139-46 वैराग्निः अदग्ध्वा न शाम्यत्यपराधजं कर्म एकतरक्षयाद्विना न शाम्यतीति योजना॥ 12-139-50 कार्यते जायते। तन्निमित्तं कालनिमित्तम्। न जीवति म्रियते॥ 12-139-53 क्षम क्षमस्व॥ 12-139-57 कस्माद्धर्मोऽस्ति कर्तृषु। तदा विधिनिषेधकथा व्यर्था स्यादिति भावः॥ 12-139-67 भिन्नकमा न सज्यन्त इति ध. पाठः॥ 12-139-72 वैरिणो वाक्ये इति शेषः। शत्रुणा दर्शितं पुरःस्थितं मधु श्रद्दधानाः शुष्कतृणैश्छन्ने प्रपाते यथा पतन्ति तद्वदेते इत्यर्थः॥ 12-139-76 सर्वथाऽनाश्वासे नृणां जीवनमेव न स्यादित्याह नेति॥ 12-139-82 परिमाणमविज्ञाय इति ड. थ. पाटः॥ 12-139-85 तस्मात्सर्वं व्यपोह्यार्थमिति झ. पाठः॥ 12-139-87 कुप्यं ताम्रादि। चादकुप्यं स्वर्णरत्नादि। उपहितान्याहुरिति झ. पाठः। तत्र उपहितानि उपधिमित्राणीत्यर्थः॥ 12-139-88 किंचित्तमिति शेषः॥ 12-139-90 खादति। स्वापराधैस्तं संतापयति शुष्कं करोति। माघमां कर्कटीम्। सेगवास्तदपत्यानि। कर्कट्या नाशहेतुर्गर्भ एवेति प्रसिद्धम्॥ 12-139-92 उत्पतेत्सहजाद्देशाद्व्याधिदुर्भिक्षपीडितादिति झ. पाठः॥ 12-139-93 मे मया। अनाहार्यं अपरिहार्यमित्यर्थः॥ 12-139-98 भीरेव नास्ति संबन्धो दरिद्रं यो बुभूषति इति झ. पाठः तत्र यत्र देशे बलात्कारो नास्ति तत्र भीरे वनास्ति। यो राजा दरिद्रं जनं बुभूषति पालयितुमिच्छति स एव तेन सह पाल्यपालकभावलक्षणः संबन्ध इति योज्यम्। यं जनोऽपि बुभूषति इति ड. थ. पाठः॥ 12-139-99 धर्मनेत्रो धर्मनेता॥ 12-139-101 समुपयोजयेत् भक्षयेत्॥ 12-139-102 अभयमिति च्छेदः॥ 12-139-106 संभावयति इष्टं चिन्तयति। उपपद्यते पालयति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|